________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः १२५४ (A)
गतमौत्पातिकम्। इदानीं सदेवमाहगंधव्वदिसा विज्जुक्कगज्जिते जूवए जक्खलित्ते य । एक्केक्कपोरिसिं गजियं तु दो पोरिसी हणति ॥ ३०९७॥
[तुला.आव.नि.१३३४] गन्धर्वनगरं नाम यच्चक्रवादिनगरस्योत्पातसूचनाय सन्ध्यासमये तस्य नगरस्योपरि द्वितीयं नगरं प्राकाराट्टालकादिसंस्थितं दृश्यते। दिस त्ति दिग्दाहः, विद्युत् प्रतीता, उल्का सरेखा प्रकाशयुक्ता वा, गर्जितं प्रतीतं, यूपको वक्ष्यमाणलक्षणः, यक्षलिप्तं नाम एकस्यां दिशि अन्तरान्तरा यद् दृश्यते विद्युत्सदृशः प्रकाशः । एतेषु मध्ये गन्धर्वनगरादिकमेकैकमेकैकां पौरुषी हन्ति । गर्जितं पुनढे पौरुष्यौ हन्ति ॥ ३०९७ ॥
गंधव्वनगरनियमा, सादिव्वं सेसगाणि भजिताणि । जेण न नजंति फुडं, तेण उ तेसिं तु परिहारो ॥ ३०९८॥ अत्र गन्धर्वनगरादिषु मध्ये गन्धर्वनगरं नियमात् सदेवम्,अन्यथा तस्याऽसम्भवात् ।
गाथा ३०९७-३१०२ दिग्हादिस्वरूपम्
१२५४ (A)
For Private And Personal Use Only