________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देश :
१२५३ (B)
܀܀܀
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पांशवो नाम धूमाकारम् आपाण्डुरमचित्तं रजः, रजउद्घातो रजस्वला दिशो यासु सत्सु समन्ततोऽन्धकार इव दृश्यते । तत्र पांशुवृष्टौ रजउद्घाते वा सवाते निर्वाते च पतति यावत्पतनं तावत्सूत्रं परिहरन्ति ॥ ३०९५ ॥
अत्रैवापवादमाह -
साभाविए तिणि दिणा, सुगिम्हए निक्खिवंति जड़ जोगं ।
तो तम्मि पडतम्मी, कुणंति संवच्छरज्झायं ॥ ३०९६ ॥ [ आव.नि.१३३३]
गाथा
३०९२-३०९६
अस्वाध्यायिके संयमोपघाति
यदि सुग्रीष्मे ग्रीष्मकालप्रारम्भे, उष्णकालप्रारम्भे चैत्रशुक्लपक्षे इत्यर्थः । दशम्याः परतो यावत् पौर्णमासी, अत्रान्तरे निरन्तरं त्रीणि दिनानि यावद्यदि योगं निक्षिपन्ति । एकादश्यादिषु त्रयोदशीपर्यन्तेषु, द्वादश्यादिषु चतुर्दशीपर्यन्तेषु, यदि वा त्रयोदश्यादिषु पौर्णमासीपर्यन्तेषु औत्यातिकअचित्तरजोऽवहेठनार्थं कायोत्सर्गं कुर्वन्ति तदा तस्मिन् पांशुवर्षे रजउद्घाते वा स्वाभाविके पतति संवत्सरं यावत् स्वाध्यायं कुर्वन्ति इतरथा नेति ॥ ३०९६ ॥
स्वरूपम्
१. पडतेवी - इति नि. भा. ६०८७ ॥
For Private And Personal Use Only
१२५३ (B)