________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहारसूत्रम्
सप्तम
उद्देशकः
१२५३ (A)
गतं संयमोपघाति अस्वाध्यायिकम्, इदानीमौत्पातिकमाहपंसू य मंसरुहिरे, केससिला वुद्वितह रउग्घाए । मंसरुहिरेऽहोरत्तं, अवसेसे जच्चिरं सुत्तं ॥ ३०९४॥ [आव.नि.१३३१]
अत्र वृष्टिशब्दः प्रत्येकमभिसम्बध्यते, पांशुवृष्टौ मांसवृष्टौ रुधिरवृष्टौ केशवृष्टौ शिलावृष्टौ च। तत्र पांशुवृष्टि म यदचित्तं रजो निपतति, मांसवृष्टिाँसखण्डानि पतन्ति, रुधिरवृष्टिः रुधिरबिन्दवः पतन्ति, केशवृष्टि र्यद्वरा: केशाः पतन्ति, शिलावृष्टि : पाषाणनिपतनं करकादिशिलावर्षमित्यर्थः। तथा रजउद्घाते रजस्वलासु दिक्षु सूत्रं न पठ्यते, शेषाः सर्वा | अपि चेष्टाः क्रियन्ते। तत्र मांसे रुधिरे च पतति अहोरात्रं वय॑ते, अवशेषे पांशुवृष्ट्यादौ यावच्चिरं पांश्वादिपतनं तावन्तं कालं सूत्रं नन्द्यादि न पठ्यते, शेषकालं तु पठ्यते ॥३०९४॥ |*
सम्प्रति पांशुरजउद्घाते व्याख्यानयन्नाहपंसू अच्चित्तरजो, रयस्सलातो दिसा रउग्घातो । तत्थ सवाते निव्वाए य सुत्तं परिहरंति ॥ ३०९५॥ [आव.नि.१३३२]
गाथा ३०९२-३०९६ अस्वाध्यायिके संयमोपघातिऔत्यातिकस्वरूपम्
१२५३ (A)
For Private And Personal Use Only