SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः २५२ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिका गर्भमासे प्रतीता, गर्भमासो नाम कार्त्तिकादिर्यावत् माघमासः । वर्षे पुनस्त्रयः प्रकारा भवन्ति । तानेवाह - बुब्बुय त्ति, यत्र वर्षे निपतति पानीयमध्ये बुदबुदास्तोयशलाकारूपा उत्तिष्ठन्ति तत् वर्षमप्युपचारात् बुद्बुदमित्युच्यते, तद्वर्जं बुद्बुदवर्जम् द्वितीयं वर्षं तृतीयं फुसी इति जलस्पर्शिका निपतन्त्यः । तत्र बुद्धदे वर्षे निपतति यामाष्टकादूर्ध्वम्, अन्ये तु व्याचक्षते - त्रयाणां दिनानां परतस्तद्वर्जे पञ्चानां दिनानां [परतो] जलस्पर्शिकारूपे सप्तानां परतः सर्वमप्कायस्पृष्टं भवति । ततस्तत्र द्रव्यतः क्षेत्रतः कालतो भावतश्च वजन प्राग्वत् भावनीयम् । यावच्चाप्कायमयं न भवति तावत् यद्युपाश्रयो निर्गलस्तत्र सर्वं स्वाध्यायप्रतिलेखनादि क्रियते, बहिस्तु न निर्गम्यते इति । सच्चित्तरजो नाम व्यवहारसचित्ता वातोद्धता श्लक्ष्णा धूलिः, तच्च सचित्तरजो वर्णेनाऽऽताम्रम् गाथायां पुंस्त्वं प्राकृतत्वात्। तच्च दिगन्तरेषु दृश्यते, तदपि निरन्तरपातेन त्रयाणां दिनानां परत: सर्वं पृथिवीकायभावितं औत्यातिककरोति । तत्रापि निपतति द्रव्यादितो वर्जनं प्राग्वत् ॥ ३०९१ ॥ गाथा ३०९२-३०९६ अस्वाध्यायिके संयमोपघाति स्वरूपम् तदेव व्याख्यातुमाह For Private And Personal Use Only १२५२ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy