________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२५१ (B)
X.
प्रथममस्वाध्यायिकं संयमोपघाति प्ररूपयति
महिया य भिन्नवासे, सच्चित्तरयए य संयमे तिविहे । दव्वे खेत्ते काले, जहियं वा जच्चिरं सव्वं ॥ ३०९०॥
महिका गर्भमासे पतन्ती प्रसिद्धा तस्यां तथा भिन्ने गृहादौ यत् पतति वर्षं तत् भिन्नवर्ष, तस्मिन् तथा सच्चित्तरजसि च एवं त्रिविधे त्रिप्रकारे संयमे पदैकदेशे पदसमुदायोपचारात् संयमोपघातिनि अस्वाध्यायिके निपतति द्रव्यतः क्षेत्रतः कालतो भावतश्च वर्जनं भवति । तत्र द्रव्यत एतदेव त्रिविधमस्वाध्यायिकं द्रव्यं, क्षेत्रतो जहियं ति यावति क्षेत्रे तत् पतति तावत्क्षेत्रं, कालतो जच्चिरं यावन्तं कालं पतति तावन्तं कालं, भावतः सर्वं कायिक्यादि चेष्टादिकं वय॑ते॥ ३०९० ॥
एनामेव गाथां व्याख्यानयतिमहिया उ गब्भमासे, वासे पुण होति तिन्नि उ पगारा । बुब्बुय तव्वज फुसी, सच्चित्तरजो य आयंबो ॥ ३०९१।।
[तुला-आव. नि. १३२७]
गाथा ३०८५-३०९१ अस्वाध्याय
पञ्चके उदाहरणादि
१२५१ (B)
For Private And Personal Use Only