________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
सप्तम
उद्देशकः
१२५१ (A)
राजा तोषिततरः,तस्य राजा गृहे अगृहे वा सर्वत्र नगरमध्ये प्रचारमीप्सितं वितरति अनुजानाति, तत्रापि यस्य सत्कं तेन गृह्यते वस्त्राऽऽहारादि तस्य राज्ञा मूल्यं दीयते। इतरेषां च चतुर्णां रथ्यादिष्वेव प्रचारमनुज्ञातवान् न गृहेषु। एवमुक्तेन प्रकारेण इह प्रस्तुते अस्वाध्यायिके उपमा दृष्टान्तः॥ ३०८६ ॥ ३०८७॥ ३०८८॥
तदेवमुक्तो दृष्टान्तः। सम्प्रति दार्टान्तिकयोजनामाहपढमम्मि सव्वचेट्टा, सज्झाओ वा निवारितो नियमा । सेसेसु असज्झातो, चेट्ठा न निवारिया अण्णा ॥ ३०८९॥
प्रथमे अस्वाध्यायिके संयमोपघातिलक्षणे सर्वा कायिकी वाचिकी वा चेष्टा स्वाध्यायश्च नियमाद्वारितस्तोषक(षित)तरपुरुषस्थानीयतया तस्य सर्वत्र साधुव्यापारेषु प्रवृत्तेः। शेषेषु पुनश्चतुर्षु अस्वाध्यायिकेषु अस्वाध्यायः स्वाध्याय एव केवलो निवारितो नान्या कायिकी वाचिकी वा प्रतिलेखनादिका चेष्टा वारिता । तेषां शेषपुरुषचतुष्ट यस्थानीयानां बहीरथ्यादाविव स्वाध्यायमात्रे एव व्यापारभावात् ॥ ३०८९ ॥
तदेवं पंचस्वप्यस्वाध्यायिकेषु सामान्यतो विशेषतश्चोदाहरणमुक्तम्। इदानीं
गाथा ३०८५-३०९१ अस्वाध्याय
पञ्चके | उदाहरणादि
१२५१ (A)
For Private And Personal Use Only