________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+न
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२४९ (B)
अक्षरयोजना त्वेवं-म्लेच्छभयमाकर्ण्य नपेन, गाथायां सप्तमी तृतीयार्थे, घोषणा कारिता। यथा-दुर्गाण्यतिगच्छथ आश्रयथ मा विनंक्ष्यथ तत्र ये अतिगतास्ते म्लेच्छभयात् स्फिटिता इतरे हताः कृतसर्वस्वापहाराश्च कृताः, येऽपि शेषाः कथमपि म्लेच्छभयविमुक्तास्तेषामाज्ञाभङ्गकरणतो नृपेण दण्डः कृतः ।। ३०८३॥
एष दृष्टान्तोऽयमर्थोपनयःराया इव तित्थगरो, जाणवया साहु घोसणा सुत्तं । मेच्छा य असज्झातो, रयणधणाइं च नाणादी ॥ ३०८४॥
[आव.नि.१३२५] अत्र राजा इव तीर्थकरः, जानपदा इव साधवः, घोषणमिव सूत्रं, म्लेच्छा इव अस्वाध्यायाः रत्नधनानीव ज्ञानादीनि । तत्र ये साधवो जानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति ते प्रान्तदेवतया छल्यन्ते प्रायश्चित्तदण्डेन च दण्ड्यन्ते ॥ ३०८४ ॥
केन पुनः कारणेनास्वाध्यायिके स्वाध्यायं करोति? तत आह
सूत्र १५-१६
गाथा २९०४-२९०९
स्वार्थाय प्रव्रज्यानिषेधः
.१२४९ (B)
For Private And Personal Use Only