________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशक :
१२४८ (B)
܀܀܀܀܀܀܀܀
www. kobatirth.org
असज्झाइयं च दुविहं, आयसमुत्थं च परसमुत्थं च ।
जं तं तु परसमुत्थं, तं पंचविहं तु णायव्वं ॥ ३०८१ ॥ [तुला आव. नि. १३२३] द्विविधं खलु अस्वाध्यायिकं, तद्यथा- आत्मसमुत्थं परसमुत्थं च । आत्मनः स्वाध्यायं चिकीर्षोः समुत्थम् आत्मसमुत्थं, परस्मात् स्वाध्यायं कर्तुरन्यस्मात् समुत्थं परसमुत्थम्, चशब्दावस्वाध्यायिकतया तुल्यकक्षतासंसूचकौ, तत्र यत् परसमुत्थं तत् पञ्चविधं ज्ञातव्यम् ॥ ३०८१ ॥
तानेव पञ्चप्रकारानाह
संजमघाउप्पाए, सादिव्वे वुग्गहे व सारीरे ।
एएस करेमाणे, आणाइ इमो उदितो ॥ ३०८२॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्र १५-१६ गाथा
| २९०४-२९०९
स्वार्थाय
संयमघाति संयमोपघातिकम्, औत्पातिकम् उत्पातनिमित्तं, सदेवं देवताप्रयुक्तं, व्युद्ग्रहं प्रव्रज्यानिषेधः शारीरं च एतेषु पञ्चस्वप्यस्वाध्यायिकेषु स्वाध्यायं कुर्वति आज्ञादय आज्ञाभङ्गादयो दोषाः । १२४८ (B) तथाऽऽज्ञां तीर्थकराणां भञ्जति प्रायश्चित्तं चतुर्गुरु, अनवस्थयाऽन्येऽपि तथा करिष्यतीति,
For Private And Personal Use Only
*********