________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
/
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२४७ (B)
संयत्योऽनिषन्नाः पठन्तीत्युक्तं तत्रापवादमाहजा दुब्बला होज चिरं चे झाओ, ताहे निसण्णा न य उच्चसद्दा ।। पलंब संघाडि न उज्जला य, अणुण्णया वास तिरंजली या ॥३०७८॥
या शरीरेण दुर्बला भवति वर्तते चिरं च स्वाध्यायः कर्त्तव्यः । तदा निषण्णा उपविष्टा सती पठति, न च उच्चशब्देन बृहता शब्देनाऽऽलापकमुद्घोषयति इत्यर्थः। तथा सङ्घाटि: प्रलम्बा पादगुम्फपर्यन्ता क्रियते नोज्वला । तथा अनुन्नता पठति । किमुक्तं भवति? नोर्ध्वमुखा सती अन्यस्याऽन्यस्य मुखं विप्रेक्षमाणा पठति। तथा वासो वस्त्रं तेन तिरोहिताञ्जलि: आलापकं गुरोः समीपे याचते ॥ ३०७८ ॥
एयविहिविप्पमुक्को, संजतिवग्गं तु जो पवाएज्जा। मज्जायातिकंतं, तमणायारं वियाणाहि ॥ ३०७९॥
एतेन अनन्तरोदितेन विधिना विप्रमुक्तो य: संयतीवर्गं प्रवाचयेत् तं मर्यादातिक्रान्तम् अनाचारम् आचाररहितं विजानीयात्॥ ३०७९ ॥ १. च सज्झातो - पु. प्रे.॥
गाथा ३०७३-३०७९
वाचनाप्रदानविधि:
७१२४७ (B)
For Private And Personal Use Only