________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
..
सप्तम उद्देशकः
.
१२४७ (A)
तानेवाहसंविगारा मेहुणादी य, जे यावि धिइदुब्बला । अण्णेण वायए ते उ, निसिं वा पडिपुच्छणं ॥ ३०७६ ॥
ये दृष्ट्या सविकारा ये च मैथुनिकादयः, मैथुनिको भर्त्ता, आदिशब्दात् पुराणादिपरिग्रहः। ये चापि धृत्या दुर्बलास्तान् अन्येन उपाध्यायादिना वाचयेत्, निशि रात्रौ वा तेषां सन्दिग्धस्थानप्रतिप्रच्छनम् ॥ ३०७६ ॥
असतण्णे पवायंते, पढंति सव्वे तहिं अदोसिल्ला । अणिसण्णथेरिसहिया, थेरसहाओ पवाएंतो ॥ ३०७७॥
अथान्य उपाध्यायादिः प्रवाचयन् न विद्यते तदाऽन्यस्मिन् असति वाचयति सर्वे तत्र पठन्ति ततः अदोषवन्तः । तत्रापि संयत्यः पठन्ति अनिषन्ना अनुपविष्टा उर्द्धस्थिता इत्यर्थः, येन परस्परं दृष्टिसम्बन्धो न भवति । तथा स्थविरसहितः, प्रवाचयन्नपि स्थविरसहायः प्रवाचयति। येन तत्सहायः सर्वानपि निभालयति ॥ ३०७७ ॥
गाथा
वाचनाप्रदानविधिः
१२४७ (A)
१. संगार मेला . ॥
For Private And Personal Use Only