________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२४६ (B)
लोगे वि पच्चतो खलु, वंदणमादीसु होंति वीसत्था । दुग्गूढादी दोसा, विगारदोसा य नो एवं ॥ ३०७४॥
एवं क्रियमाणे सति लोकेऽपि शुद्धशीलसमाचारविषयः प्रत्यय उपजायते। येऽपि च वन्दनादिषु कार्येषु समागच्छन्ति तेऽपि तौ द्वावपि वर्गों तथोपविष्टौ दृष्ट्वा विश्वस्ता भवन्ति एवं च सति ये दुर्गुढादयः प्रच्छन्नप्रदेशादिभाविता दोषाः ये च परस्परं संयतसयतीनां विकारदोषास्ते न भवन्ति । अथ कटो न विद्यते तदा वस्त्रेण चिलिमिली क्रियते ॥ ३०७४ ॥ तथा चाह
चिलिमिलि छेदे ठायइ, जह पासति दोण्ह वी पवाएंतो । दिट्ठीसंबंधादी, इमे उ तहियं न वाएज्जा ॥ ३०७५ ॥
प्रवाचयन् गणधरश्चिलिमिल्या उपलक्षणमेतत् कटस्य च छेदे पर्यन्ते तिष्ठति यथा द्वावपि संयतसंयतीवर्गों पश्यति। तत्र ये संयताः संयतीनां दृष्टीदृष्ट्याऽऽत्मीयया सम्बघ्नन्ति ते दृष्टिसम्बन्धा उच्यन्ते, आदिशब्दात् मैथुनिकादिपरिग्रहः,तानिमान् वक्ष्यमाणान्न वाचयेत् ॥ ३०७५॥
गाथा ३०७३-३०७९
वाचनाप्रदानविधिः
१२४६ (B)
For Private And Personal Use Only