________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
सप्तम
उद्देशकः १२४६ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वयानामपि संयतानां संयतीनां चाऽऽत्मन उपाश्रये एकस्मिन् तेन वाचना देया । तत्र द्वयानां वाचनादाने इयं वक्ष्यमाणा यतना ॥ ३०७२ ॥
अत्र मण्डलीयतनाद्वारमापतितं, तदेवाह -
कडणतरितो वाए, दीसंति जणेण दो वि जह वग्गा । बंधंति मंडलिं ते, उ एक्कतो यावि एक्कतो ॥ ३०७३॥
ते संयताः संयत्यश्च मण्डलीं बध्नन्ति तद्यथा - एकतः संयतमण्डली एकतः संयतीमण्डली, अपान्तराले च संयतीनां व्यवधानाय कटो दीयते । तत्रापि प्रच्छन्ने प्रदेशे स्थिताः संयतीर्न वाचयति । अन्यथा ये शून्यगृहादिषु वाचयतः शङ्कादयो दोषा उक्तास्ते अत्रापि स्युः, अत आह— यत्र द्वावपि वर्गों संयतसंयतीसमुदायरूपावुपविष्टौ जनेन दृश्येते तत्र स्थितः कटेनान्तरितो वाचयति ॥ ३०७३ ॥
एवं सति यो गुणस्तमाह
For Private And Personal Use Only
गाथा
३०७३-३०७९
वाचना
* प्रदानविधिः १२४६ (A)
***