________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः
गतं क्षेत्रद्वारम् । अधुना कालयतनाद्वारमाहजइ अस्थि वायणं देतो, अदाउं ताहे गच्छति । अह नत्थि ताहे दाऊण, सुत्तइत्ताण पोरिसिं ॥ ३०७१॥
यदि साधूनां सूत्रस्यार्थस्य च वाचनां दाता समस्ति तत आचार्यो वाचनां साधूनामदत्त्वा गच्छति प्रातरेव साध्वीनामशङ्कनीये स्थाने वाचनां दातुं गच्छतीति भावः । अथाऽर्थपौरुषीदाता समस्ति न सूत्रपौरुषीदाता तदा सूत्रवतां संयतानां सूत्रपौरुषीं दत्त्वा गच्छति ॥ ३०७१ ॥
१२४५ (B)
गाथा २०६५-३०७२ वाचनादाने द्रव्यादियतना
X.
अह अत्थइत्ता होजाहि, ता जाइ पढमाए ऊ । असतीए दोण्ह वी दाणे, इमा उ जयणा तहिं ॥ ३०७२॥
अथ सूत्रस्य दाता विद्यते नार्थस्य, साधवश्चाऽर्थवन्तोऽपि अर्थार्थिनोऽपि सन्ति, ततः प्रथमपौरुष्यां संयतीनां वाचनाप्रदानाय गच्छति, द्वितीयस्यां तु पौरुष्यामागत्य संयतानामर्थं ददाति। अथ संयतानां सूत्रस्यार्थस्य वा प्रदाताऽन्यो न विद्यते तदाऽन्यस्याऽसति अभावे
.
१२४५ (B)
For Private And Personal Use Only