________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
षष्ठ उद्देशकः १०५३ (B)
महिलाए समं छोढुं, ससुरेणं ढक्कितो उ उव्वरतो । दारं २। नायविहिमागयं वा, पेल्ले उब्भामगसगाए ॥ २४४७॥ दारं ३।
तस्य साधोः श्वशुरकस्तं तत्र समागतं साधुं दृष्ट्वा निजदुहितरं सर्वालङ्कारभूषितां कारयेत्, कारयित्वा च वन्दापनाय भिक्षार्थं वा तत्र समागतस्तेन श्वशुरकेण महेलया भायर्या सममपवरके क्षिप्त्वा अपवरको ढक्कितः स्थगितद्वारः कृतः। तत्र चोपसर्ग्यमाणः कश्चिदुत्प्रव्रजेत् २। प्रेरणाद्वारमाह-ज्ञातविधिमागतं सन्तं साधुं दृष्ट्वा स्वजनवर्गस्तस्य स्वकीयया उद्भामिकया भार्यया प्रेरयेत् संयमात् च्यावयेत् । गतं प्रेरणाद्वारम् ३ ॥२४४७ ॥ |
गाथा सम्प्रति उपसर्गद्वारं प्रतिपिपादयिषुरिदमाह
२४४१-२४४८
ज्ञाताविधिमोहुम्मायकराइं, उवसग्गाई करेइ से विरहे । भजा जेहिं तरू विव वाएणं भज्जते सज्जं ॥२४४८॥ दारं ४।
सामाचारी भार्या से तस्य स्वजनविधिं गतस्य साधोर्विरहे मोहोन्मादकरान् उपसर्गान् । १०५३ (B) आलिङ्गनादीन् तान् करोति, यैस्तरुरिव वातेन भज्यते सद्यः ४॥२२४८ ॥
सम्प्रति "पंथे रोवण भयए" इति द्वारव्याख्यानमाह
गमन
For Private And Personal Use Only