________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
षष्ठ उद्देशकः
१०५३ (A)
साम्प्रतमेतदेव विवरीषुः प्रथमत आक्रन्दस्थानद्वारमाहदीसंता वि हु नीया, पव्वयहिययं पि संपकप्पंति । कलुणकिवणाणि किं पुण, कुणमाणा एगसेज्जाए ॥ २४४५॥
सेनापतौ मृते स तत्र ज्ञातविधौ गतस्तत्र दृश्यमाना अपि निजकाः पर्वतहृदयमपि पर्वतसदृशमानसमपि साधु संयमात् सम्प्रकम्पयन्ति सम्यगन्तीनीभूय प्रकर्षेण च्यावयन्ति, किं पुनरेकस्यां शय्यायां वसतौ करुणकृपणानि रोदनानि कुर्वाणाः सुतरां संयमाद् भ्रंशयन्ति ।
अक्कंदट्ठाणठितो, तेसिं सोच्चा उ नायगादीणं । पुव्वावरत्त रोवण, जाय ! अणाहा वए को वि ॥२४४६ ॥ दारं १।।
सोऽधिकृतः साधुर्यत्र ते ज्ञाताः क्रन्दन्ति तस्मिन्नाक्रन्दस्थाने स्थितः पूर्वरात्रेऽपररात्रे च रोदनं तेषां ज्ञातकादीनां करुणं कृपणं यथा जात ! वयमनाथा भविष्यामः सर्वेषां परिभवास्पदमिति श्रुत्वा कश्चित् व्रजेत् प्रव्रज्यां मुञ्चेदित्यर्थः १॥ २४४६ ॥
गाथा २४४१-२४४८ ज्ञाताविधि
गमनसामाचारी
१०५३ (A)
गतमाक्रन्दस्थानद्वारमधुना "ससुर उव्वरए" [गा.२४४३] इत्यादिद्वारमाह
For Private And Personal Use Only