________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२३६ (A)
܀܀܀
www. kobatirth.org
तम्हा इच्छावेती, एयासिं नाणदंसणचरितं ।
नाणचरणेण अज्जा, काहिति अंतं भवसयाणं ॥ ३०३२ ॥
यतो निर्वाणाभावे दीक्षा निरर्थिका, अथ च तासां निर्वाणाय भगवता दीक्षाऽनुज्ञाता तस्मादेतासां दीक्षा बलादपि ज्ञानदर्शनचारित्रं समाहारत्वादेकवचनमिच्छापयति यतोऽन्तं विनाशं भवशतानां करिष्यत्यार्यिका, यतो निर्वाणं लभ्यते ज्ञानचरणेन, नान्यथा ॥ ३०३२ ॥
नाणस्स दंसणस्स य, चारित्तस्स य महाणुभावस्स । तिहं पि रक्खणट्ठा, दोसविमुक्को पवाएज्जा ॥ ३०३३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानस्य दर्शनस्य चारित्रस्य च कथम्भूतस्यैकैकस्य इत्यत आह- महान् अनुभावः प्रभावो यस्य तत् तथा तस्य, एतेषां त्रयाणां रक्षणाय दोषविमुक्तो वक्ष्यमाणदोषविप्रमुक्तो प्रवाचयेत् ॥ ३०३३ ॥
अप्पसत्थेण भावेण, वाएंतो दोसवं भव ।
केरिस अप्पसत्थो उ ?, इमो सो उ पवुच्चती ॥ ३०३४ ॥
For Private And Personal Use Only
܀܀܀
गाथा ३०३२-३०४० ज्ञानस्य महिमा
१२३६ (A)