________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पते यतिनिश्रया व्यतिकृष्टे काले संयतीनां स्वाध्याय इति सूत्रेणोद्धारे कृते परः क्रमागतं परिपाट्यागतमिदं भणति ॥ ३०२५ ।।
श्री | व्यवहार
सूत्रम् सप्तम
उद्देशकः १२३४ (B)
किं तद् इत्याहपुव्वं वण्णेऊणं, संजोगविसं च जायरूवं च । आरोवणं तु गरुयं, न हु लब्भं वायणं दाउं ॥ ३०२६॥
पूर्वं संयोगविषं जातरूपं च जातस्वरूपं च विषं सहजविषं चेत्यर्थः। आरोपणं च | प्रायश्चित्तं चतुः [गुरुकं] वर्णयित्वा यत् सम्प्रति वाचनां ददत अन्तर्भूतण्यर्थत्वात् दापयत तां दापयितुं न हु नैव लभ्यम्॥ ३०२६ ।।
एवं परेण पूर्वपक्षे कृते सूरिराहकारणियं खलु सुत्तं, असति पवायंतीयाए वाएजा । पाढेण विणा तासिं, हाणी चरणस्स होजाहि ॥ ३०२७॥
X
सूत्र १४
गाथा ३०२४-३०३१ निग्रन्थनिश्रया व्यतिकृष्टेऽपि | स्वाध्यायः
१२३४ (B)
For Private And Personal Use Only