________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः १२३४ (A)
तत्र यतनामाहकालगयं मोत्तूणं, इमा अणुप्पेहदुब्बले जयणा । अन्नवसहिं अगीते, असती तत्थेवऽणुच्चेणं ॥ ३०२४॥
कालगतं मुक्त्वा शेषेषु कारणेषु अनुप्रेक्षादुर्बले इयं वक्ष्यमाणा यतना-अन्यस्यां वसतौ गत्वा रहस्यश्रुतं परिवर्त्तयन्ति। मा अगीते अगीतार्थस्य रहस्यश्रुतश्रवणं भूयादिति हेतोः। अथान्य उपाश्रयो न विद्यते ततोऽन्यस्या वसतेरभावे तत्रैव तस्यामेवं वसतावनुच्चेन शब्देन परावर्तयन्ति, कालगतेऽपि वसत्यन्तरे न यान्ति किन्तु तत्रैव जागरणनिमित्तम् अनुच्चशब्देन गुणयन्ति। संयत्योऽप्यपवादपदेन संयतानां समीपे पठेयुः परावर्त्तयेयुर्वा न कश्चिद्दोषः ॥ ३०२४॥
सूत्रम्- कप्पति निग्गंथीणं वितिगिढे काले सज्झायं करेंतए निग्गंथनिस्साए॥१४॥
कल्पते निर्ग्रन्थीनां निर्ग्रन्थनिश्रया व्यतिकृष्टेऽपि काले स्वाध्यायं कर्तुमिति सूत्राक्षरार्थः । अधुना भाष्यप्रपञ्चः-तत्र प्रथमतः पूर्वपक्षस्यावकाशं दर्शयति
कप्पति जइनिस्साए, वितिगिटे संजतीण सज्झाओ । इति सुत्तेणुद्धारे, कयम्मि उ कमागतं भणति ॥ ३०२५ ॥
सूत्र १४
गाथा ३०२४-३०३१ निग्रन्थनिश्रया व्यतिकृष्टेऽपि स्वाध्यायः
१२३४(A)
For Private And Personal Use Only