________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशः
यस्य यत् परिजितं स तत् परावर्त्तयति, आदिशब्दात् स्तेनकादिष्वपि समापतत्सु यस्य यत् परिजितं स तत् गुणयति [ इति ] परिग्रहः, तथा कालगतः संयतो यदि कारणेन प्रतीक्षापयितव्यो भवति तदा रात्रौ जागरणनिमित्तं यस्य यत् परिजितं स तत् परावर्त्तयति । तथा यस्य सकाशे तत् श्रुतमधीतं स कालगतोऽन्यत्र च तच्छ्रुतं नास्ति, ततः सम्प्रति पठितं मा विस्मृतिं यायात् अनुप्रेक्षायां च सोऽकुशलः । तत एवमेतैः कारणै द्वितीयपदमधिकृत्य १२३३ (B) व्यतिकृष्टेऽपि कालेऽध्यायः कल्पते । अत्र पर आह - तत्राऽपवादपदेन व्यतिकृष्टेऽपि काले पठतः किं ते दोषा आज्ञाभङ्गादयो न सन्ति न भवन्ति ? | ३०२२ ॥
अत्रोत्तरमाह
भन्नइ जेण जिणेहिं, अणुण्णायाइं कारणे ताई ।
तो दोसो न संजायइ, जयणाए तहिं करेंतस्स ॥ ३०२३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
भण्यते अत्रोत्तरं दीयते येन कारणेन जिनै: कारणे सागारिकादिलक्षणे तानि पठनान्यनुज्ञातानि तस्मात् कारणाद् रहस्यश्रुतस्यापि च यतनया वक्ष्यमाणलक्षणया तत्र सागारिकवसत्यादौ पाठं कुर्वतो दोष आज्ञाभङ्गादिलक्षणो न सञ्जायते ॥ ३०२३ ॥
For Private And Personal Use Only
܀܀
गाथा
३०१८-३०२३ व्यतिकृष्टे काले
पठननिषेधः
१२३३ (A)