________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
www. kobatirth.org
सप्तम
उद्देशकः
एवं ता उद्देसो, अज्झाओ वी न कप्पति विगिट्टे ।
दोहं पि हुंति लहुगा, विराहणा सेव पुव्वुत्ता ॥ ३०२१ ॥
एवमुक्तेन प्रकारेण तावदुद्देशोऽभिहितो यथा- व्यतिकृष्टे काले स न क्रियते, अध्यायोऽप्यध्ययनादीनां विकृष्टे काले न कल्पते, तत्र कालिकस्य उद्घाटा पौरुषी व्यति [ कृष्टः ] कालः, उत्कालिकस्य सन्ध्या । तत्र द्वयोरपि कालिकोत्कालिकयोः व्यतिकृष्टे काले प्रायश्चित्तं १२३३ (A) चत्वारो लघुका भवति । सैव पूर्वोक्ता विराधना ज्ञानविराधना आत्मविराधना च। तत्र ज्ञानविराधना च ज्ञानाचारहननाद्, आत्मविराधना प्रान्तदेवता च्छलनात् ॥ ३०२१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अत्रैवापवादमाह
बितियविगिट्टे सागारियाए कालगय असति वोच्छेदे । एवं कप्पति तहियं किं ते दोसा न संती उ ॥ ३०२२॥ कदाचित् साधवः कारणेन सागारिकायां वसतौ स्थिताः, तत्र परिचारणाशब्दं श्रुत्वा
१. कप्प वितिगिट्ठे-ला. ॥
For Private And Personal Use Only
गाथा
| ३०१८-३०२३ व्यतिकृष्टे काले
* पठननिषेधः
܀܀܀܀
१२३३ (A)