________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
सप्तम
स(स्व)पक्षे उद्देशः कर्त्तव्यो न परपक्षे इत्युत्सर्गः। अत्र द्वितीयपदमपवादपदं-यदि श्री | प्रवर्त्तिन्यास्तत् श्रुतं न विद्यते तत आचार्यः परपक्षेऽपि संयतीरूपे अङ्गं श्रुतस्कन्धं वा
उपलक्षणमेतदध्ययना-दिकं चोद्दिशति। अथवा सत्यपि तस्मिन् प्रवर्त्तिन्याः श्रुते आचार्ये
संयत्या अङ्गं श्रुतस्कन्धं वा उद्दिशति मङ्गलादीनि भवन्ति ततः स एवोद्दिशति। तथाहिउद्देशकः
आचार्ये उद्दिशति स परमज्ञानपात्रमिति मङ्गलबुद्धिरुपजायते। तथा यस्मादाचार्येणोद्दिष्टमिदमत १२३२ (B)|| आदरेण पठनीयमिति तत्पाठविषया महती श्रद्धा भवति तथा यदि पाठे प्रमादं करिष्यामि
ततो न पठितमित्याचार्या रुष्येयुरिति भयम्। तथा ममेदमाचार्येण गौरवेणोद्दिष्टं तस्मादादरेण पठित्वा शीघ्रं समाप्तिं नयामि। तह निट्ठिए चेव त्ति तथा निष्ठिते अङ्गे श्रुतस्कन्धे वा समाप्तिं नीते यथासम्भवमेतैरेव कारणैरङ्ग श्रुतस्कन्धं वाचार्योऽनुजानीयात् ॥ ३०१९॥ ३०१८-३०२३
व्यतिकृष्टे एमेव संजती वि, उद्दिशती संजयाण बितियपदे ।
काले असतीए संजयाणं, अज्झयणाणं च वोच्छेदो ॥ ३०२०॥
पठननिषेधः तत् विवक्षितं श्रुतं संयतानां न विद्यते, अध्ययनानां चान्यथा व्यवच्छेदः स्यात् ततो ||१२३२ (B) द्वितीयपदेन अपवादपदेन, गाथायां सप्तमी तृतीयार्थे, संयत्यपि संयतानामुद्दिशति॥ ३०२० ॥
गाथा
For Private And Personal Use Only