________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
H
सप्तम
उद्देशकः १२३१ (A)
स्तवः स्तुतिधर्माख्यानं च पूर्वोद्दिष्टं सन्ध्यायामपि पठनीयं भवति, कालिकं पुनः श्रुतं प्रथमायां पौरुष्यामुद्दिष्टं काले प्रथमपौरुषीलक्षणे चरमपौरुषीलक्षणे च पठ्यते नाऽकाले, इतरद उत्कालिकं प्रथमायां पौरुष्यामद्दिष्ट व्यतिकष्टेऽपि काले सन्ध्यामस्वाध्यायिकं च वर्जयित्वा पठ्यते ॥ ३०१४॥
पत्ताण समुद्देसो, अंगसुयक्खंधपुव्वसूरम्मि । इच्छा निसीहमादी, सेसा दिणपच्छिमादीसु ॥ ३०१५॥
अध्ययनमुद्देशं वा पठन्तो यदैव श्रवणं प्राप्ता भवन्ति तदैव[तेषां] तस्याऽध्ययनस्योद्देशस्य | वा समुद्देशः क्रियते अङ्गं श्रुतस्कन्धो वा पूर्वसूरे उद्घाटायामपि पौरुष्यामनुज्ञायते। येषामागाढो योगस्तेषां निशीथादीनामिच्छा प्रथमायां चरमायां वा पौरुष्यां तेषामनुज्ञा प्रवर्त्तते इति। शेषाणि अध्ययनान्युद्देशका वा दिवसस्य पश्चिमायां पौरुष्याम्,आदिशब्दात् रात्रेः प्रथमायां चरमायां वाऽनुज्ञायन्ते ॥ ३०१५ ॥
अनुज्ञामेवाधिकृत्य विशेषव्याख्यानमाह
गाथा
३०११-३०१७
उद्देशसमुद्देशअनुज्ञाविधिः
१२३१ (A)
For Private And Personal Use Only