________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२३० (B)
www. kobatirth.org
यस्माद् विपक्षे एते दोषाः, तस्मात् श्रमण- श्रमणीभ्यां स्वपक्षे उद्देशः कर्त्तव्यः संयतैः संयतानामुद्देशः कार्यः, संयतीभिः संयतीनामित्यर्थः । ततः प्रागुक्ता दोषा न भवन्ति । परः -किमत्र पुनः कारणं यदुद्देशः क्रियते ? अनुद्दिष्टं कस्मात् न पठ्यते ? ॥ ३०१२ ॥
तत्राह
बहुमाण विणय आउत्तया य उद्देसतो गुणा होंति ।
पढमा सो उ सव्वो, एत्तो वोच्छं करणकालं ॥ ३०१३॥
Acharya Shri Kailassagarsuri Gyanmandir
उद्देशे हि क्रियमाणे श्रुतस्य श्रुताधारस्य चाध्यापकस्योपरि बहुमानमान्तरः प्रीतिविशेषो भवति। विनयश्च प्रयुक्तः स्याद् आयुक्तता च महती भवति एत उद्देशतो गुणा भवन्ति । एष सर्वोऽप्यङ्गादिविषय उद्देशः प्रथमादेशः । अत ऊर्ध्वं तु स्वाध्यायकरणकालं वक्ष्ये ॥ ३०१३ ॥
प्रतिज्ञातमेव निर्वाहयति
थथुइ धम्मक्खाणं, पुव्वुद्दिट्टं तु होइ संज्झाए । कालियकाले इयरं, पुव्वुद्दिट्टं विगिट्ठे वि ॥ ३०१४॥
For Private And Personal Use Only
܀܀܀܀
गाथा
३०११-३०१७
उद्देश -
समुद्देशअनुज्ञाविधिः
१२३० (B)