________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
X
.
व्यवहारसूत्रम् सप्तम उद्देशकः
१२३० (A)
पुरुषस्य निसर्गविषं सहजविषं स्त्री नेपथ्योपेता, एवं स्त्रिया अपि सहजं विषं पुमान् पुरुषः नेपथ्योपेतः । संयोगिमं विषं द्वयोरपि संयतस्य संयत्याश्चेत्यर्थः, स( स्व )पक्षः परपक्षनेपथ्यः । तद्यथा-संयतस्य पुरुषः स्त्रीनेपथ्योपेतः, निर्ग्रन्थ्याः स्त्री पुरुषनेपथ्योपेता ॥ ३०१० ॥
घाणरसफासतो वा, दव्वविसं सइंऽतिवाएति । सव्वविसयाणुसारी, भावविसं दुजयं असई ॥३०११॥
द्रव्यविषं घ्राणतो रसतः स्पर्शतो वा सकृद् एकवारमतिपातयति । वा विभाषायां, तदपि सकृदतिपातं वैकल्पिकं भवति। तथाहि-द्रव्यविषं कदाचिज्जीवितान्न च्यावयेदपीति । भावविषं पुनः सर्वविषयानुसारि पञ्चस्वपीन्द्रियविषयेषु सम्प्रापकत्वात् । तथा दुर्जयम् अल्पसत्त्वेन जेतुमशक्यत्वात्, नियमाच्चाऽसकृदनेकवारमतिपातयति विनाशयति । भावविषमूर्च्छितानामनेकमरणभावात् ॥ ३०११॥
उपसंहारमाहजम्हा एए दोसा, तम्हा उ सपक्ख समण-समणीहिं । उद्देसो कायव्वो, किमत्थ पुण कीर उद्देसो ॥ ३०१२॥
गाथा ३०११-३०१७
उद्देश
समुद्देशअनुज्ञाविधिः
.१२३० (A)
For Private And Personal Use Only