________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहार-|
सूत्रम्
सप्तम
उद्देशकः १२२९ (A)
एते उ सपक्खम्मी, दोसा आणादयो समक्खाया । परपक्खम्मि विराहण, दुविहेण विसेण दिलुतो ॥ ३००७॥
एते प्रवचनवेदिनामतीव प्रसिद्धाः स(स्व)पक्षे उद्दिशतः आज्ञादयो दोषाः समाख्याताः। तद्यथा-आज्ञा तीर्थकराणां भग्ना भवति, अनवस्था तं दृष्ट्वा अन्येषामपि तथाकरणात, मिथ्यात्वं तीर्थकराज्ञाभङ्गात, विराधना द्विविधा संयमविराधना आत्मविराधना च, तत्र संयमविराधना ज्ञानाचारविराधनाद्, आत्मविराधना देवताछलनात्। परपक्षेप्येते दोषाः। केवलं या संयमविराधना सा ज्ञानाचारविघातात्मिका ब्रह्मविघातात्मिका च ज्ञातव्या, तत्र द्विविधेन विषेण द्रव्यविषेण भावविषेण च दृष्टान्तः ॥ ३००७॥
गाथा ३००४-३०१० कालवेलायां विपक्षे च पठन-उद्देशयोः
दोषाः
तत्र द्रव्यभावविषप्ररूपणार्थमाहदव्वविसं खलु दुविहं, सहजं संजोइमं च तं बहुहा । एमेव य भावविसं, सचेयणाऽचेयणं बहुहा ॥ ३००८॥ द्रव्यविषं खलु द्विविधं, तद्यथा-सहजं संयोगिमं च, संयोजनं संयोगः, तेन निर्वृत्तम् |
१२२९ (A)
For Private And Personal Use Only