________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
४
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२२८ (A)
निर्दोषं द्वात्रिंशताऽपि दोषैर्विनिर्मुक्तं, सारवत् बह्वर्थमधिकृतव्यवहारसूत्रवत्, हेतवः अन्वयव्यतिरेकलक्षणाः, तैर्युक्तम्, अलङ्कृतम् उपमाद्यलङ्कारोपेतम्, उपनीतम् उपनयोपसंहृतं, सोपचारं [=अग्राम्याभिधानम् ] मितं परिमिताक्षरं, मधुरं ललिताक्षरपदाद्यात्मकतया श्रोत्रमनोहारि ॥ ३००३॥
पुव्वण्हे अवरण्हे य, अरहा जेण भासती । एसा वि देसणा अंगे, जं च पुव्वुत्तकारणं ॥ ३००४॥
गाथा येन कारणेन भगवान् अर्हन् पूर्वाह्ने अपराह्ने च [भाषते] एषैव भगवतो देशना |
३००४-३०१० अङ्गे निबद्धा, तस्मादुद्घाटायां पौरुष्यां न पठनीयं, नाप्युद्देष्टव्यम्, यच्च पूर्वं निशीथाध्ययने || कालवेलायां
विपक्षे च उक्तं कारणं तक्रोदाहरणलक्षणं तस्मादप्यकाले न पठनीयं नाप्युद्देष्टव्यम्॥ ३००४॥ | अतश्चाऽकाले न पठनीयम् ।
यत आह
दोषाः
४१२२८ (A)
१. आवश्यकहारिभद्रयां गा. ८८० गाथा टीकायाम् 'अग्राम्याभिधानम्' इति॥
For Private And Personal Use Only