________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् | सप्तम
उद्देशकः १२२६ (A)
संयत्या उद्दिशति कारणे वा संयती संयतस्य तदा प्रायश्चित्तं चत्वारो गुरुकाः । अथ किमुद्दिशति एवं प्रायश्चित्तम् ? अत आह–अङ्गं श्रुतस्कन्धमध्ययनमुद्देशं स्तुतिमादिशब्दात् स्तवं वा ॥२९९५॥ तंत्र स्तुतिस्तवयोर्विशेषमभिधित्सुराहएगदुगे तिसलोगा, थुतीओ अन्नेसि होइ जा सत्त । देविंदत्थयमादी, तेणं तु परं थया होंति ॥ २९९६॥ एकश्लोका द्विश्लोका त्रिश्लोका वा स्तुतिर्भवति परतश्चतुःश्लोकादिकः स्तवः । | अन्येषामाचार्याणां मतेन एकश्लोकादि सप्तश्लोकपर्यन्ता स्तुतयः ततः परमष्टश्लोकादिकाः स्तवाः । यथा देवेन्द्रस्तवादयः आदिशब्दात् कर्मस्तवादिपरिग्रहः ॥ २९९६ ॥
गाथा
सूत्रं
देवा
धिष्ठितम्
१२२६ (A)
अथ व्यतिकृष्ट काले उद्दिशतः पठतो वा को दोषस्तत आह१. थुतीसु-सं. ला. ।।
For Private And Personal Use Only