________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२२५ (B)
व्यतिकृष्टमिति खलु प्रकृतमनुवर्तमानमस्ति दिग्सूत्रादनन्तरं च एकेनाधिकरणसूत्रेणान्तरितम् उद्देशसूत्रं वर्तते। ततो यथा प्राभृतमधिकरणं संयतानामविकृष्टं संयतीनां विकृष्टमेवं न सूत्रमपीत्येतदर्थख्यापनार्थमिदं सूत्रम् ॥ २९९४ ।।
अनेन सम्बन्धेनायातस्यास्य व्याख्या
न कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा व्यतिकृष्ट काले उद्घाटायां पौरुष्यामित्यर्थः, स्वाध्यायमुद्देष्टं वा कर्तुं वेति सूत्राक्षरार्थः ॥ सम्प्रति भाष्यविस्तर:
लहुगा य सपक्खम्मी, गुरुगा परपक्खे उद्दिसंतस्स । अंग सुयक्खंधं वा, अज्झयणुद्देसथुतिमाई ॥ २९९५॥ यदि विकृष्टे उद्घाटपौरुषीलक्षणे स( स्व )पक्षे उद्दिशति संयतः संयतस्योद्दिशतीत्यर्थः। तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः। परपक्षः संयतस्य संयती, संयत्याः संयतः,तत्र संयतः
सूत्र १३
गाथा २९९०-२९९५ व्यतिकृष्टे
काले स्वाध्यायनिषेध:
१२२५ (B)
१. परपक्ख
-ला.॥
For Private And Personal Use Only