________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१२२४ (A)
www. kobatirth.org
इति असहण उत्तुइया, मज्झत्थातो समंति तत्थे । असुणासु सव्वगणभंडणे च गुरुसिट्ठिमा मेरा ॥ २९९० ॥
इति एवमुपदर्शितेन प्रकारेण असहनाभिर्या उत्तेजिता कोपं ग्राहिता तां मध्यस्थाः संयत्यस्तत्रैव शमयन्ति । न च तास्तत् भण्डनं कस्यापि श्रावितवत्यः । अथ मध्यस्थानां संयतीनामभावतो वेलावशाद्वा सर्वगणस्य भण्डनमभूत् तर्हि सर्वगणभण्डने स्वस्वगुरुशिष्टं कर्त्तव्यम्। ततस्तावुपशमयतः । अथ लज्जातो भयतो वा न स्वस्वगुरोर्निवेदितं तर्हि तत्रेयं मर्यादा ॥ २९९० ॥
एतदेवाह
Acharya Shri Kailassagarsuri Gyanmandir
गणहरगणहरगमणं, एगायरियस्स दोन्नि वा वग्गा । आसन्नागम दूरे, य पेसणं तं च बितियपयं ॥ २९९१॥
समस्तस्यापि गणस्य भण्डने जाते आत्मीयस्याऽऽत्मीयस्य गणधरस्य समीपे गमनम् ।
१. असुणामु-सं. । असुणावला. । असुणाम- मु. ॥
For Private And Personal Use Only
सूत्र १३
गाथा २९९०-२९९५ व्यतिकृष्टे
काले
स्वाध्यायनिषेधः
१२२४ (A)