________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२२३ (B)
शिष्यः प्राह-कथं केन प्रकारेण पुनस्तासामाधिकरणमुत्पन्नं स्यात् ? सूरिराह-काश्चनायिकाचैत्यवन्दनाय चैत्यगृहं गताः। तस्मिंश्च चैत्यगृहे बहिर्मुखमण्डपादिकं न समस्ति। ततश्चैत्यगृहमध्यस्थिताश्चैत्यानि वन्दन्ते। तासां च वन्दमानानां प्रथमस्तुतेरारभ्य अन्याः काश्चन संयत्यः समागताः । ताश्च मध्ये अवकाशो नास्तीति बहिरुष्णे स्थिताः । ततो विस्तरेण चैत्यस्तुतीनां भणने बहि:स्थिता उष्णेन परितप्यमाना वदन्ति-युष्माभिः कोकिलाशब्दाभिर्धणियमतिशयेन वयं परितापिताः॥ २८८७॥ २९८८॥
तथानग्धंति नाडगाई, कलं पि कलभाणणीण तुब्भाणं । विप्पगते भवतीणं, जायं ने भयं नरवतीति तो ॥ २९८९॥
युष्माकं कलभाननानां सुस्वरमनोज्ञाननानां पुरतः कलामपि मनागपि नाटकानि | नार्घन्ति । ततो भवतीनां विप्रकृते कारणेन जातं नोऽस्माकं भयं नरपतेः। नूनं नरपतिना | यूयं नाटके प्रक्षेप्स्यध्वे ॥ २९८९॥
सूत्र १२
गाथा २९८३-२९८९ निर्ग्रन्थीनां
कलहशमनविधिः
१२२३ (B)
१. कलमाणिणीण-पु. प्रे. ला.। कलभासिणीण-ला. पाठा.॥ २. मनोज्ञागतानां-पु. प्रे.॥
For Private And Personal Use Only