________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार-13 सूत्रम् सप्तम
उद्देशकः १२२३ (A)
अथ नास्ति कोऽपि तत्र व्रजन् यस्य सन्देशः कथ्यते, तर्हि स आत्मना स्वयमुपशाम्यति, सर्वथा मनसोऽधिकरणमुपशमपरायणतया स्फेटयति । ततो यत्र मिलति तत्र क्षमयति। अथ न क्वापि मिलितस्ततस्तस्मिन्नदृष्टे गुरूणामन्तिकं गत्वा तं मनसि कृत्य क्षामणं करोति ॥ २९८६॥
सूत्रम्-कप्पइ निग्गंथीणं वितिगिट्ठाई पाहुडाई वितोसवत्तिए॥ १२॥
कल्पते निर्ग्रन्थीनां व्यतिकृष्टानि क्षेत्रविप्रकृष्टानि [प्राभृतानि] कलहान् वितोषयितुमुपशमयितुमित्येष सूत्राक्षरार्थः ॥ सम्प्रति भाष्यप्रपञ्चः
निग्गंथीणं पाहुड, वितोसवियव्व होइ वितिगिटुं । किह पुण होजुप्पन्नं, चेइयघरवंदमाणीणं ॥ २९८७॥
चेइयथुतीण भणणे, उण्हे अन्नातो बाहि अच्छंति । परिताविया धणियं, कोइलसद्दाभि तुब्भाहि ॥ २९८८ ॥ निर्ग्रन्थीनां प्राभृतं वितोषयितव्यम् उपशमयितव्यं भवति व्यतिकृष्टं क्षेत्रविप्रकृष्टम्।
सूत्र १२
गाथा २९८३-२९८९ निर्ग्रन्थीनां
कलहशमनविधिः
१२२३ (A)
For Private And Personal Use Only