________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः
.
१२१९ (A)
कथं तं भाषते ? इत्याहगणस्स गणिणो चेव, तुमम्मि निग्गते तया । अद्धिती महती आसी, सो विवक्खो य तज्जितो ॥ २९७२॥
तदा तस्मिन् काले त्वयि अधिकरणं कृत्वा निर्गते समस्तस्यापि गणस्य गणिनश्चाऽऽचार्यस्य महती अधृतिरासीत् । येन च सह तवाधिकरणमभूत् सोऽपि विपक्षो गणिना गणेन च तर्जितः ॥ २९७२ ॥
गणेण गणिना चेवं, सारिजतमझंपिए । ताहे अन्नावदेसेण, विवेगो से विहिज्जइ ॥ २९७३॥
एवमुक्त्वानन्तरं तत्रत्येन गणेन गणिना च सम्यक् सारणीयः शिक्षणीयो येन स्वदोषं प्रतिपद्य तत्र गत्वा विपक्षं क्षमयति। अथ स तथा सार्यमाणोऽझंपितो नोपशमं नीतो दुःस्वभावत्वात्, ततोऽन्यापदेशेन से तस्य विवेको विधीयते ॥ २९७३ ॥
गाथा २९६८-२९७५ कलहोपशमनविधिः
१२१९ (A)
१. सारिजं तो स झंपिए ॥
For Private And Personal Use Only