________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१२१८ (B)
H
गणिणो अत्थनिब्भेयं, रहिते किच्च पेसितो । गमेति तं रहे चेव, नेच्छे सहामहं खु ते ॥ २९७०॥
अन्येन कृत्येन प्रयोजनेन प्रेषितः स तु रहिते साधुश्रावकादिरहिते विविक्ते प्रदेशे अर्थनिर्भेदं तदधिकरणरहस्यं गणिन आचार्यस्य गमयति कथयति। क्रमेणाचार्यस्तं कृताधिकरणं रहसि एव गमयति । यथा त्वमित्थमित्थमधिकरणं कृत्वाऽत्र समागतो न च स उपशमित इति । एवमुक्ते यदि स नेच्छेत् यथा-अहं नाधिकरणं कृत्वा समागतः यस्त्विदं ब्रूते तेन सहाहं ब्रुवे खु निश्चितमिति ॥२९७० ॥
गुरु समक्खं गमितो, तहावि जइ नेच्छई । ताहे णं गणमज्झम्मि, भासते नातिनिट्ठरं ॥ २९७१॥
एवं तस्यानिच्छायां स प्रयोजनान्तरव्याजेन प्रेषितो रहसि गुरुसमक्षमधिकरणं गमयति, तथा कथञ्चनापि तच्चित्तमनुप्रविश्य यथा रोषं न विदधाति तथा गमितोऽपि यदि नेच्छति ततः प्रहरदिवसाद्यतिक्रमेण प्रस्तावान्तरमारचय्य गणमध्ये तं भाषते परं नातिनिष्ठुरम् ॥ २९७१ ॥
XX
गाथा २९६८-२९७५ कलहोपशमनविधिः
१२१८ (B)
For Private And Personal Use Only