________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देश :
१२१९ (B)
www. kobatirth.org
केनापदेशेन ? इत्याह
महाजणो इमो अम्हं, खेत्तं पि न पहुप्पति ।
वसही सन्निरुद्धा वा, वत्थपत्ता वि नत्थि णो ॥ २९७४ ॥
अयं साधु-साध्वीलक्षणो महान् जनो अस्माकमेतावतां चैतत् क्षेत्रं न प्रभवति संकीर्णत्वात्, यदि वा वसतिः सन्निरुद्धा सङ्कटा वर्त्तते, तत एतावन्तः साधवोऽत्र न मान्ति । अथवा वस्त्रपात्राण्यस्माकं सम्प्रति न सन्ति अपिशब्दाद् न चात्र तथाविधः पाठोऽप्यस्ति साधवोऽप्येते ऽतीवाऽसहनाः । तस्मात् यूयमन्यत्र क्वापि गच्छत ॥ २९७४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि पुनः स सार्यमाण उपशममधिगच्छति । स च वक्ष्यमाणेन विधिनोपशमयितव्यः । तत्र प्रथमतोऽधिकरणोपशमस्थानमाह
संगणिच्चपरगणिच्चेण, समणुन्नेयरेण वा ।
रहस्सा वि व उप्पन्नं, जं जहिं तं तहिं खवे ॥ २९७५ ॥
१. छन्दोनुसारं ‘सगणपरगणिच्चेण' पाठो युक्तः इति ला. टिप्पणे ॥
For Private And Personal Use Only
गाथा
२९६८-२९७५
कलहोपशमनविधिः
१२१९ (B)