________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम् घष्ठ उद्देशकः ०५१ (A)
च त्वयि नाथे विद्यमाने परिभवोऽस्माकं युक्तस्तस्मात् कुरु प्रसादम्' इत्येवं तैरुपचर्यमाण: संयमात् व्यपरोपितः१ । सम्प्रति करुणद्वारमाह
सेणावती मतो ऊ, भाय-पिया वा वि तस्स जो आसि । अण्णो य नत्थि अरिहो, नवरि इमो तत्थ संपत्तो ॥२४३६॥
सेनापतिर्मृतस्तस्य यो भ्राता पिता वा आसीत् सोऽपि मृतः, अन्यश्च तस्मिन् गृहे | अर्हो योग्यः सेनापतित्वस्य नास्ति, नवरमयमेव योग्यः । स च तत्र संप्राप्तः ॥२४३६ ॥
तो कलुणं कंदंता, बिंति अणाहा वयं विणा तुमए । मा य इमा सेणावति, लच्छी संकामओ अन्नं ॥२४३७॥
गाथा. २४३२-२४४० निष्कारणे ज्ञातविधिगमने दोषाः
ततस्तत्सम्प्राप्त्यनन्तरं ते स्वजनाः करुणं क्रन्दन्तो ब्रवते- 'वयमनाथास्त्वया विना' | इयं च प्रत्यक्षत उपलभ्यमाना सेनापतिलक्ष्मीरन्यं पुरुषान्तरं मा सङ्क्रामतु ॥ २४३७ ॥10.
१०५१ (A)
| १. नत्थि अरिहो नवरि सो य इमो तत्थ संपन्नो-पु.प्रे.॥
For Private And Personal Use Only