________________
Shri Mahavir Jain Aradhana Kendra
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२१३ (A)
܀܀܀܀
www. kobatirth.org
य एव दोषा मिथ्यात्वगमनादयः क्षेत्रविकृष्टेऽभिहितास्त एव सविशेषा भवविकृष्टेऽपि ज्ञातव्याः, केवलं कोशलवर्जा: । कोशलदोषा हि भवविकृष्टे न भवन्ति मृतत्वेनाऽसम्भवात् तस्मात् द्विविधमपि व्यतिकृष्टं क्षेत्रविकृष्टं भवविकृष्टं च नोद्दिशेत् ॥ २९४९॥
अत्रैवापवादपदमाह–
बितियं तिव्वऽणुरागा, संबंधी वा न ते सीयंति । इत्तरादिसाउ नयणं, अप्पाह एव दूरम्मि ॥ २९५०॥
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयमपवादपदमधिकृत्य क्षेत्रविकृष्टमपि उद्दिशेत् यदि सा धर्मग्राहिण्याचार्ये तीव्रानुरागा भवेत्। स वा आचार्यस्तस्याः सम्बन्धी स्वजनः, न च ते आचार्याः संयमयोगेषु सीदन्ति उद्यतविहारिण इत्यर्थः । केवलं तस्या इत्वरा दिशो ऽनुबन्धनीया यावत्ते स्वक आचार्यो न मिलति तावद्वयमाचार्या एते उपाध्याया इयं प्रवर्त्तिनीति । ततः स्वाचार्यसमीपे विधिना नयनम् । अथ च दूरे ते आचार्यास्ततः सन्देशं कथयन्ति यथा - युष्मदीया धर्मशिष्या अस्माकं पार्श्वे प्रतिपन्नदीक्षाका वर्त्तते सा प्रतिग्राह्या ॥ २९५० ॥
१. 'नुबन्धयिन्या - मु.। 'नु बन्धिन्या- सं. । 'नु बन्धंध्या पु. प्रे. ॥
For Private And Personal Use Only
***
गाथा
२९४६-२९५२
विकृष्टे
दिग्बन्धे
दोषाः
१२१३ (A)