________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
सप्तम
उद्देशकः १२१२ (B) |
xx
स्तेनैर्वा शरीरापहारिभिरुपध्यपहारिभिर्वा सा पथि गच्छन्ती हियेत। तथा स्वच्छन्दमुत्थानं स्वच्छन्दगमनमित्यादयश्चैते दोषा एकाकिन्या भवन्ति। किं वा स्वच्छन्दा सती सा न प्राप्नुयात्? सर्वदुःखस्थानमाप्नुयादित्यर्थः ॥ २९४७ ॥
सम्प्रति भवविकृष्टे दोषानाहगोरवभयममकारा, अवि दूरत्थे वि होति जीवंते । को दाणि समुग्घातस्स कुणइ न य तेण जं किच्चं ॥ २९४८ ॥
अपि दरस्थेऽपि जीवति सति तद्विषये गौरव-भय-ममीकारा भवन्ति भूयस्तन्मिलना- दिप्रत्याशासम्भवाद् । इदानीं पुनस्तस्य समुद्घातस्य को गौरवं भयं ममीकारं वा करोति? नैव कश्चित् यत् यस्मात् न च नैव तेन कृत्यं प्रयोजनं मृतत्वेन सर्वप्रयोजनातीतत्वात् ॥२९४८ ॥
कोसलवजा ते च्चिय, दोसा सविसेस भवविगिट्टम्मि । दुविहं पी वितिगिटुं, तम्हा उ न उद्दिसेज्जाहि ॥ २९४९॥
गाथा
.
२०४-२००२ विकृष्टे दिग्बन्धे दोषाः
H
१२१२ (B)
For Private And Personal Use Only