________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम उद्देशकः
१२१२ (A)
भावः । एकाकिनीत्वात् न च प्रायश्चित्तस्थानम् अप्रायश्चित्तस्थानं वा सा जानाति, तत इतोऽपि । शोध्यभावः ॥ २९४५ ।।
सागारिकादिद्वारं पाखण्डद्वारं चाहसागारमसागारे, एगीए उवस्सए भवे दोसा । दारं ३। चरगादिविपरिणामण, सपक्खपरपक्खनिण्हादी ।। २९४६ ॥ दारं ४।
सागारे अगारसहिते असागारे अगाररहिते उपाश्रये एकस्या एकाकिन्या दोषा भवन्ति । तत्र सागारे दीपस्पर्शनादयः, अनगारे कुलटाजारादिप्रवेशतः। गतं सागारकादिद्वारम्, पाषण्डद्वारमाह-चरगादि इत्यादि, स्वपक्षे परपक्षे च विपरिणामनं, तत्र स्वपक्षे निह्नवादिभिः, आदिशब्दात् पार्श्वस्थादिपरिग्रहः । परपक्षे चरकादिभिः ॥ २९४६ ॥
स्तेनद्वारं स्वच्छन्दद्वारं चाहतेणेहि वा वि हिजइ, । दा.५। सच्छंदुट्ठाणगमणमादी य । दोसा भवंति एए, किं व न पावेज सच्छंदा? ॥ २९४७॥ दारं ६।
गाथा २९४६-२९५२
विकृष्टे दिग्बन्धे ___दोषाः
१२१२ (A)
For Private And Personal Use Only