________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२११ (B)
मिथ्यात्वं मिथ्यात्वगमनं, शोधेरभावः। तथा सागारिके अगारसहिते, आदिशब्दात् अनगारे एकाकिन्या उपाश्रये दोषाः। तथा पाषण्डैर्विपरिणामनं, स्तैनैरपहारः, तथा स्वच्छन्दा स्यात् न गच्छाधीना। तथा च सति भूयांसो दोषाः। एते क्षेत्रविकृष्टे उद्दिश्यमाने दोषाः । भवविकृष्ट तूद्दिश्यमाने अमङ्गलं तेन संयमजीविताद् भवजीविताद्वा भ्रश्येत्। तस्माद्भवविकृष्टोऽपि नोद्देष्टव्यः । एष द्वारगाथासक्षेपार्थः ॥ २९४४ ।।
साम्प्रतमेनामेव विवरीषुः प्रथमतो मिथ्यात्वद्वारं शोधिद्वारं चाहउवदेसो न सिं अत्थि, जेणेगागी उ हिंडए । इति मिच्छं जणो गच्छे, दा.१ । कत्थ सोहिं च कुव्वउ?॥२९४५ ॥ दारं २। ||२९३९-२९४५
क्षेत्रविकृष्टे उपदेशः सिं तासामेकाकिनीनां नास्ति, येन स तादृशः स्त्रीजन एकाकी हिण्डते ।।
दोषाः तत इति अस्मात् कारणादुपदेशाभावलक्षणाजनः स्त्रीजनो मिथ्यात्वं गच्छेद्। गतं
१२११ (B) मिथ्यात्वद्वारम्। शोधिद्वारमाह- कुत्र प्रायश्चित्तमापन्ना सती शोधिं कुर्यात् ? नैव कुत्रापीति
गाथा
For Private And Personal Use Only