________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
सप्तम
उद्देशक:
१२११ (A)
सुचिरमपि कालं सारिता शिक्षिता सती गमिष्यतीति मन्यमानस्य गच्छस्य न तस्या विषये ममत्वमायाति, सीदन्त्याः संयमयोगेषु शिथिलीभवन्त्याश्चोदनाः शिक्षास्तासु दीयमानासु व्यवहार - साऽन्यत्र गन्तुमनाः परिभूताऽस्मीति मन्यते ततस्तस्या अपि न गच्छस्योपरि ममता ॥ २९४२॥
श्री
सूत्रम्
किञ्च–
गमणुस्सुएण चित्तेण सिक्खातो वि न गिण्हइ ।
वारिज्जंती वि गच्छिज्जा, पंथ दोसे इमे लभे ॥ २९४३ ॥
गमनोत्सुकेन चित्तेन शिक्षा अपि नानाप्रकारा ग्रहणशिक्षा आसेवनशिक्षाश्च न गृह्णाति । तथा वार्यमाणाऽपि तस्य क्षेत्रविकृष्टस्यान्यस्याचार्यस्य समीपं गच्छेत् । तत्र च पथि दोषानिमान् वक्ष्यमाणान् लभते ॥ २९४३ ॥ अत्र यदुक्तं प्राक् 'एतैर्वक्ष्यमाणैर्दोषैस्तानपि नोद्दिशेत्' [गा. २९४०] तद्व्याख्यानावसरः
तानेव दोषानाह
मिच्छत्त-सोहि - सागारियादि पासंडतेण सच्छंदा । खेत्तविगिट्ठे दोसा, अमंगलं भवविगिट्ठम्मि ॥ २९४४॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
गाथा
|२९३९-२९४५ क्षेत्रविकृष्टे दोषाः
| १२११ (A)