________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२१० (A)
किं कारणमत्र कोशलकस्य ग्रहणं कृतम्? सूरिराह-यस्मात् कोशलको देशस्वभावात् बहून दोषान् लाति आदत्ते इति बहुदोषलो बहुदोषवान् तस्मात् दोषोत्कटतया अत्र कोशलस्य ग्रहणम् अपि च ॥ २९३८ ॥
अंधं अकूरमययं, अवि य मरहट्टयं अवोगिल्लं । कोसलयं च अपावं, सएसु एक्कं न पिच्छामो ॥ २९३९॥
अन्ध्रम् अन्ध्रदेशोत्पन्नम् अक्रूरमतकम् अक्रूराभिप्रायमपि च महाराष्ट्रकम् अवोगिल्लम् अवाचालं कोशलकं च अपापं शतेषु मध्ये एकं न प्रेक्षामहे इति प्रसिद्धिः। अतः कोशलक-ग्रहणम् ॥ २९३९ ॥
पुनरपि परः प्राहकोसलए जे दोसा, उद्दिस्संतम्मि किन्न सेसाणं? । ते तेसि होज व न वा, इमेहि पुण नोद्दिसे ते वी ॥ २९४०॥ ये दोषाः कोशलके दिशमुद्दिशति ते किं न शेषाणां दिशमुद्दिशति भवन्ति?
गाथा २९३९-२९४५ क्षेत्रविकृष्टे दोषाः
१२१० (A)
For Private And Personal Use Only