________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
सप्तम उद्देशकः
वारिजंती वि गया, पडिवन्ना सा य तेण भावेणं । जिणवयणबाहिरेणं, कोसलएणं अकुलएणं ॥ २९३७॥
एक: कोशलकः कोशलदेशोत्पन्न इत्यर्थः, तेनान्यदेशं गतेन यतमानेन सदनुष्ठानपरायणेन काऽपि श्राविका उपशमिता । स च कोशलक: स्वदेशं गतः। तस्मिंश्च गते सा श्राविका अन्यस्मिन् गच्छे तत्र गते तस्य समीपे निष्क्रमितुमुपस्थिता 'यथा मां निष्क्रामयत, परं मम स एव कोशलक: आचार्यः।' एवं सा तमेव व्यपदिशन्ती तैर्दीक्षिता । सा च दीक्षाप्रतिपत्त्यनन्तरं वार्यमाणाऽपि कोशलसमीपं गता । सा च तेन पापेन जिनवचनबाह्येनाऽकुलजेन कोशलेन प्रतिपन्ना। एष दोषः क्षेत्रविकृष्टां दिशमुद्दिशतः ॥ २९३६ ।। २९३७ ॥
१२०९ (B)
सूत्र ९-१०
गाथा
अत्र पर आह
२९३२-२९३८ | व्यतिकृष्टदि| गुद्देशे दोषाः
कोसलए किं कारण, गहणं बहुदोसलो उ कोसलतो । तम्हा दोसुक्कडया, गहणं इह कोसले अवि य ॥ २९३८ ॥
१२०९ (B)
For Private And Personal Use Only