________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्री | व्यवहारसूत्रम् सप्तम उद्देशकः १२०८ (B)
पव्वावियस्स नियमा, दिति दिसं दुविहमेव तिविहा वा । सा पुण कस्स विगिट्ठा, उद्दिसति सन्निगिट्ठा वा ॥ २९३३॥
अनन्तरसूत्रेषु प्रव्राजनमुक्त प्रवाजितस्य तु नियमाद् दिशं द्विविधां त्रिविधां वा प्रयच्छन्ति संयतस्य द्विविधामाचार्योपाध्यायलक्षणाम्, संयत्यास्त्रिविधामाचार्योपाध्यायप्रवर्तिनीरूपामित्यर्थः, सा पुनर्दिक् कस्य विकृष्टा उद्दिश्यते कस्य सन्निकृष्टेति प्रतिपादनार्थमधिकृतं सूत्रद्वयमित्येष सम्बन्धः ॥२९३३॥
अथवा अन्यथा सम्बन्धस्तमेवाहअहवाऽवि सरिसपक्खस्स अभावा दिक्खणा विपक्खे वि ।
सूत्र ९-१०
गाथा तत्थ वि कस्स विगिट्ठा, उद्दिस्सइ कस्स वा नेति?॥ २९३४॥ २९३२-२९३८
| व्यतिकृष्टदिपुरुषाः संयतानां सदृशपक्षः स्त्रियो विपक्षः। तथा स्त्रियः संयतीनां सदृशपक्षः पुरुषा |
* गुद्देशे दोषाः विपक्षः। अथवाऽपीति सम्बन्धस्य प्रकारान्तरतोपदर्शने, सदृशपक्षस्याभावात् दीक्षणं
४१२०८ (B) विपक्षेऽपि कर्त्तव्यमित्यनन्तरसूत्रेष्वभिहितम्। तत्रापि कस्य दिक् विकृष्टा उद्दिश्यते कस्य वा न? इत्येतदधिकृतसूत्रद्वयेनाभिधातव्यमिति सम्बन्धः। अनेन सम्बन्धेनाऽऽयातस्यास्य
For Private And Personal Use Only