________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
सप्तम उद्देशकः २०६ (B)
सम्प्रति कायानां दर्शनमाहआलिहण सिंच तावण, वीयण दंतधुवणादिकजेसु । कायाण अणुवभोगो, फासुयभोगो परिमितो य ॥ २९२८॥
पृथिव्याः काष्ठादिना आलिखनम्, उदकेन सेचनम्, अग्निना तापनं, वायोर्व्यजनम् दन्तप्रक्षालनम्, इत्यादिकार्येषु कायानामनुपभोगः। यदि पुनः कायैः प्रयोजनमुपजायते तदा प्रासुकेन परिभोगः कर्त्तव्यः, सोऽपि च परिमित इति ॥२९२८ ॥
सम्प्रति दीक्षादिद्वारप्रतिपादनार्थमाहअब्भुवगयाए लोओ, कप्पट्ठगलिंगकरणदावणया । भिक्खग्गहण कहेति, वदति चऽहं ते दिसा तिण्णि ॥ २९२९॥
पूर्वोक्तं सर्वं यद्यभ्युपगतवती भवति तदा तस्या अभ्युपगताया अभ्युपगतवत्या लोचः कर्तव्यः । यदा तु निवसनविधिरुपदेष्टमपक्रान्तो भवति तदा कल्पस्थकस्य बालकस्य
सूत्र ७-८
गाथा २९२६-२९३१
निग्रन्थनिर्गन्थ्योः
दिशः
सामाचारी
१२०६ (B)
For Private And Personal Use Only