________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
सप्तम उद्देशक:
१२०६ (A)
सव्वस्स पुच्छणिज्जा, न य पडिकूलेण सइरमुदिताऽसि । खुड्डी वि पुच्छणिजा, चोयणफरुसा गिरा भावे ॥ २९२६ ॥
गृह स्थावस्थायां त्वं सर्वस्य प्रच्छनीया वर्तसे, तत्रापि न प्रतिकूलेन वचसा | किन्त्वनुकूलेन। तथा स्वैरं स्वेच्छया मुदिता प्रमोदवती गृहस्थावस्थायाम् असि भवसि । व्रतप्रतिपत्त्यनन्तरं तु क्षुल्लिकाऽपि त्वया प्रच्छनीया, तथा तथा चोदनादिशिक्षणं परुषया गिरा भविष्यति। एतच्च परमदुस्सहम्, इत्येषा भावे भावविषया प्रतिपृच्छा ॥ २९२६ ॥
जा जेण वएण जहा, व लालिता तं तदन्नहा भणति । सोयादिकसायाण य, जोगाण य निग्गहो समिति ॥ २९२७॥
या यस्मिन् वयसि, गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वाद्, यथा येन प्रकारेण लालिता, वाशब्दो भावविषयप्रतिपृच्छाप्रकारान्तरोपदर्शने, तां तदन्यथा भणति। तथा इदं वक्तिश्रोत्रादीनामिन्द्रियाणां, क्रोधादीनां कषायाणां, योगानां च कायप्रभृतीनां प्रदुष्टानां निग्रहः कर्त्तव्यः । समितयश्च ईर्यासमित्यादयः पञ्च परिपालनीयाः। तदेवं तस्या द्रव्यादिभिस्तुलनोक्ता ॥ २९२७॥
सूत्र ७-८
गाथा २९२६-२९३१ निग्रन्थनिर्गन्थ्योः दिशः सामाचारी
१२०६ (A)
For Private And Personal Use Only