________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२०५ (A)
܀܀܀܀܀
www. kobatirth.org
पुनरपि द्रव्यविषयामेव तामाह
पडिकारा य बहुविहा, विसयसुहा आसि भे ण पुण इहिं । वत्थाणि ण्हाणधूवा, विलेवणाओसहाइं च ॥ २९२३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तथा भे भवतीनां गृहस्थावस्थायां व्याधेः प्रतिकारा बहुविधा आसीरन्, विषयसुखानि च बहुविधानि । तथाहि - गृहस्थावस्थायां मनोज्ञानि वस्त्राणि, शरीरमनः पह्नत्तिकरं स्नानं, घ्राण - मनोनिर्वृतिकरा धूपाः, शरीरसुभगानि विलेपनानि, एतेन विषयसुखानि भावितानि । तथा औषधानि च गृहस्थावस्थायां नानाप्रकाराणि सङ्गृहीतानि, इदानीं पुनर्न विषयसुखानि नापि प्रतीकारा बहुविधाः, ततः परमदुष्करं व्रतमेतदिति ॥ २९२३॥
क्षेत्रतः प्रतिपृच्छामाह -
अद्धाण दुक्खसेज्जा, सरेणुतमसा य वसहितो खेत्ते । परपाएहि गयाणं, वुत्थाण य उउसुहघरेसु ॥ २९२४ ॥
युष्माकं सदैव परपादैर्गतानां सदैव च ऋतुसुखेषु गृहेषूषितानां प्रव्रज्याप्रतिपत्त्यनन्तर
For Private And Personal Use Only
गाथा |२९२२-२९२५ * दीक्षार्थ्या
* द्रव्यादितुलना
१२०५ (A)