________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम उद्देशकः १२०४ (B)|
'एवम् आर्ये! त्वमपि परिधापनं कुर्याः ।' तथा भिक्षाटनसामाचारी सङ्क्षपेण कथयति। तत इत्वरदिक्करणं 'यावदाचार्यसकाशं न व्रजामि तावदहमेव ते आचार्योऽहमेव च प्रवर्तिनी।। आचार्यसमीपं गतानां त्वाचार्या ज्ञातारः।' ततो वक्ष्यमाणविधिना गुरुसमीपे नयनम्। एष नियुक्तिगाथासमासार्थः ।। २९२१॥
साम्प्रतमेनामेव विवरीषुर्भाष्यकारः प्रथमतस्तस्या द्रव्यादिभिस्तुलनामाहपेज्जादि पायरासा, सयणासणवत्थपाउरण दव्वे । दोसीण दुब्बलाणि य, सयणादि असक्कया एण्हिं ॥ २९२२॥
गृहस्थावस्थायां प्रातराशा प्रथमालिका पेयादिरूपा, पेया प्रतीता, आदिशब्दान्मण्डक- मोदकादिपरिग्रहः। तथा शयनाऽऽसनवस्त्राणि शोभनानि प्रावरणानि च कालोचितान्यासीरन इदानीं तु व्रतप्रतिपन्ने प्रथमालिकायां भक्तं दोसीणमिति पर्युषितं भविष्यति, दुर्बलानि च शयनादीनि शयना-ऽऽसन-वस्त्राणि प्रावरणानि च, एतस्य च कर्तुमशक्यता। इयं द्रव्ये द्रव्यविषया प्रतिपृच्छा ॥२९२२ ॥
गाथा
..
दीक्ष
* द्रव्यादितुलना
१२०४ (B)
For Private And Personal Use Only