________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः १२०४ (A)
एवमुक्तेन प्रकारेणाऽऽत्मानं द्रव्यादिरूपया चतुर्विधया तुलनया तोलयित्वा, याऽसौ प्रव्राजनीया साऽपि द्रव्यादिभिस्तोलयितव्या। सा च तुलनाऽग्रे भणिष्यते। यदि तुलनायामुक्तायां सा ब्रूते- सर्वमहं कर्तुं समर्था इति तदा सा दीक्षणीया। सा च तुलना तस्याः कर्त्तव्या, यस्याः स्वभावो न ज्ञायते, यस्याः पुनः स्वभावो ज्ञातो वर्त्तते तत्रात्मतुलनैव प्रागुक्ता कर्त्तव्या। 'अथ यदि तस्य माता भगिनी वा ततः कथं तस्याः स्वभावो न ज्ञायते?' उच्यते- 'स लघुक एव नष्टः प्रवाजितो वा। ततः स्वभावाऽपरिज्ञानम्।' कायाण दायणमिति, कायानां पृथिवीकायादीनां दर्शनं कर्तव्यम् यथा-एष पृथिवीकाय उच्यते, अयमकायः, अयं तेजस्कायः, एष वायुकायः,अयं वनस्पतिकायः, एष चलनधर्मा द्वीन्द्रियादिः त्रसकायः, तत्र पृथिव्या आलिखनादि न कर्त्तव्यम्, अप्कायेन स्वगात्रसेचनादि, तेजस्कायेन प्रतापनादि
गाथा [वायुकायेन वीजनादि] च, वनस्पतिकायेन दन्तपवनादि, त्रसकायस्य परितापनादि। यदि | २९२२-२९२५ पुनः कायैः कार्यमुपजायते तदा तत् कारणे प्रासुकेन परिमितेन कर्त्तव्यम्। एवमभ्युपगते
* दीक्षार्थ्या
द्रव्यादितुलना तस्या दीक्षा दातव्या। तदनन्तरं [शिक्षा] ग्रहणशिक्षा आसेवनाशिक्षा च शिक्षणीया। तत्र ग्रहणशिक्षा सा दशवैकालिकादिसूत्रं पाठनीया, आसेवना शिक्षा यत् परिधापनादि शिक्ष्यते।। ४१२०४ (A) तत्र परिधापनविधिमुपदर्शयितुकामेन पूर्वं लघुबालक: संयतीनेपथ्येन परिधाप्यते। तत उच्यते
For Private And Personal Use Only