________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देश :
१२०२ (B)
www. kobatirth.org
एतदेवाह -
असिवादिकारणगतो, वोच्छिन्नमडंबसंजतीरहिते ।
कहियाकहिय उवट्ठिय, असंकइत्थी इमा जयणा ॥ २९१६ ॥
अशिवादिभिः कारणैरेकाकी, व्यवच्छिन्ना ग्रामनगरादयो दिक्षु विदिक्षु च यस्मात् तस्मिन् व्यवच्छिन्ने, संयतीरहिते मडम्बे गतः । तत्र च धर्मे कथिते अकथिते वा मात्रादयो व्रतग्रहणार्थमुपस्थिताः। तासु अशङ्कासु अशङ्कनीयास्वियं वक्ष्यमाणा यतना ॥ २९१६॥ तामेवाह
आहारादुप्पायण, दव्वे समुई च जाणते तीसे ।
जड़ तरति गंतु खेत्ते, आहारादीणि अद्धाणे ॥ २९१७॥
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्ये द्रव्यतो यद्याहारादीनाम्, आदिशब्दादुपध्यादिपरिग्रहः, उत्पादने समर्थः । समुई नाम स्वभावः, तां च तस्या जानाति, यथा- प्रथमालिकां विना न शक्नोति, चतुर्थरसकादिकं च पानीयं पातुं न शक्नोति, ततस्तद्योग्यं पानं प्रथमालिकां चोत्पादयितुं क्षमः । तथा क्षेत्रो यदि पथि पादाभ्यां गन्तुं तरति, अध्वनि चाहारादिकमुत्पादयितुम् ॥ २९१७ ॥
For Private And Personal Use Only
܀܀܀܀
गाथा |२९१६-२९२१ स्वजनप्रव्राजने
तुलनादिः
१२०२ (B)