SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२०२ (A) भगिनी अन्या वा काचन नालसम्बद्धा स्वजनास्ति, तासां मात्रादीनां मेलनं मेलापक: साधोर्भवति स च मात्रादिक: स्त्रीजनो धर्मे कथिते अकथिते वा प्रव्रज्यां प्रतिपत्तुमभ्युपगतो यथा वयं प्रव्रज्यां प्रतिपद्यामहे । एवं प्रव्रज्यामभ्युपगते मात्रादावशङ्कनीये स्त्रीवर्गे यतना | कर्त्तव्या । सा चेयं-तेन साधुना[आत्मा] चतुर्विधया तुलनया तोलयितव्यः । तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च। तत्र द्रव्यतो यदि आहारमुपधिं भैषजादिकं चोत्पादयितुं समर्थः । तथा कस्याप्येवं स्वभावो भवति यथा न शक्नोति स्थातुं प्रथमालिकां विना, चतुर्थरसकादिकं वा पानकं न शक्नोति पातुम् । ततस्तद्योग्यं पानकं प्रथमालिकां चानेतुं समर्थः । क्षेत्रतो यदि शक्नोति पथि पादाभ्यां गन्तम अध्वनि वा यदि शक्नोत्याहारादिकमुत्पादयितुम्। कालतो ग्रीष्मकाले पानकं, शीतकाले यत् कालप्रायोग्यमाहारादिकं तदुत्पादयितुं समर्थः, रात्रौ मध्याह्ने वा यदि गन्तुं प्रभुः । भावतो यदि क्रोधादीनां जयं कर्तुं क्षमः, ज्ञानदर्शनचारित्राणि सामाचारी च ग्राहयितुमीशस्ततो यावदाचार्याणां प्रवर्त्तिन्या वा मूलं न प्राप्नोति तावदेतया चतुर्विधया तुलनयाऽऽत्मानं तुलयित्वा यदि समर्थो जातस्ततः प्रव्राजयति ॥ २९१५ ॥ गाथा २९१६-२९२१ स्वजनप्रव्राजने तुलनादिः १२०२ (A) १. यदि समर्थ आ० पु. प्रे.मु.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy